On seeing this link about this early hymn to śiva,I then went around looking for it,and found it in the śāntiparva(not included in the BORI critical recension though). I am posting it in full in devanāgarī and IAST here.
Devanagari version
दक्ष उवाच
नमस् ते देवदेवेश देवारिबलसूदन
देवेन्द्रबलविष्टम्भ देवदानवपूजित
सहस्राक्ष विरूपाक्ष त्र्यक्ष यक्षाधिप प्रिय
सर्वतःपाणिपादान्त सर्वतोक्षिशिरोमुख
सर्वतःश्रुतिमल् लोके सर्वम् आवृत्य तिष्ठसि
शङ्कुकर्ण महाकर्ण कुम्भकर्णार्णवालय
गजेन्द्रकर्ण गोकर्ण पाणिकर्ण नमो ऽस्तु ते
शतोदर शतावर्त शतजिह्व शतानन
गायन्ति त्वां गायत्रिणो अर्चयन्त्य् अर्कम् अर्किणः
ब्रह्माणं त्वां शतक्रतुम् ऊर्ध्वं खम् इव मेनिरे
मूर्तौ हि ते महामूर्ते समुद्राम्बरसंनिभ
सर्वा वै देवता ह्य् अस्मिन् गावो गोष्ठ इवासते
भवच्छरीरे पश्यामि सोमम् अग्निं जलेश्वरम्
आदित्यम् अथ वै विष्णुं ब्रह्माणं च बृहस्पतिम्
भगवान् कारणं कार्यं क्रिया करणम् एव च
असतश् च सतश् चैव तथैव प्रभवाप्ययौ
नमो भवाय शर्वाय रुद्राय वरदाय च
पशूनां पतये चैव नमो ऽस्त्व् अन्धकघातिने
त्रिजटाय त्रिशीर्षाय त्रिशूलवरपाणिने
त्र्यम्बकाय त्रिनेत्राय त्रिपुरघ्नाय वै नमः
नमश् चण्डाय मुण्डाय अण्डायाण्डधराय च
दण्डिने समकर्णाय दण्डिमुण्डाय वै नमः
नमोर्ध्वदंष्ट्रकेशाय शुक्लायावतताय च
विलोहिताय धूम्राय नीलग्रीवाय वै नमः
नमो ऽस्त्व् अप्रतिरूपाय विरूपाय शिवाय च
सूर्याय सूर्यमालाय सूर्यध्वजपताकिने
नमः प्रमथनाथाय वृषस्कन्धाय धन्विने
शत्रुंदमाय दण्डाय पर्णचीरपटाय च
नमो हिरण्यगर्भाय हिरण्यकवचाय च
हिरण्यकृतचूडाय हिरण्यपतये नमः
नमः स्तुताय स्तुत्याय स्तूयमानाय वै नमः
सर्वाय सर्वभक्षाय सर्वभूतान्तरात्मने
नमो होत्रे ऽथ मन्त्राय शुक्लध्वजपताकिने
नमो नाभाय नाभ्याय नमः कटकटाय च
नमो ऽस्तु कृशनासाय कृशाङ्गाय कृशाय च
संहृष्टाय विहृष्टाय नमः किलकिलाय च
नमो ऽस्तु शयमानाय शयितायोत्थिताय च
स्थिताय धावमानाय मुण्डाय जटिलाय च
नमो नर्तनशीलाय मुखवादित्रवादिने
नाद्योपहारलुब्धाय गीतवादित्रशालिने
नमो ज्येष्ठाय श्रेष्ठाय बलप्रमथनाय च
कालनाथाय कल्याय क्षयायोपक्षयाय च
भीमदुन्दुभिहासाय भीमव्रतधराय च
उग्राय च नमो नित्यं नमो ऽस्तु दशबाहवे
नमः कपालहस्ताय चितिभस्मप्रियाय च
विभीषणाय भीष्माय भीमव्रतधराय च
नमो विकृतवक्त्राय खड्गजिह्वाय दंष्ट्रिणे
पक्वाममांसलुब्धाय तुम्बीवीणाप्रियाय च
नमो वृषाय वृष्याय गोवृषाय वृषाय च
कटंकटाय चण्डाय नमः पचपचाय च
नमः सर्ववरिष्ठाय वराय वरदाय च
वरमाल्यगन्धवस्त्राय वरातिवरदे नमः
नमो रक्तविरक्ताय भावनायाक्षमालिने
संभिन्नाय विभिन्नाय छायायातपनाय च
अघोरघोररूपाय घोरघोरतराय च
नमः शिवाय शान्ताय नमः शान्ततमाय च
एकपाद् बहुनेत्राय एकशीर्ष नमो नमः
नमः क्षुद्राय लुब्धाय संविभागप्रियाय च
पञ्चालाय सिताङ्गाय नमः शमशमाय च
नमश् चण्डिकघण्टाय घण्टायाघण्टघण्टिने
सहस्रशतघण्टाय घण्टामालाप्रियाय च
प्राणघण्टाय गन्धाय नमः कलकलाय च
हूंहूंहूंकारपाराय हूंहूंकारप्रियाय च
नमः शमशमे नित्यं गिरिवृक्षालयाय च
गर्भमांसशृगालाय तारकाय तराय च
नमो यज्ञाय यजिने हुताय प्रहुताय च
यज्ञवाहाय दान्ताय तप्यायातपनाय च
नमस् तटाय तट्याय तटानां पतये नमः
अन्नदायान्नपतये नमस् त्व् अन्नभुजे तथा
नमः सहस्रशीर्षाय सहस्रचरणाय च
सहस्रोद्यतशूलाय सहस्रनयनाय च
नमो बालार्कवर्णाय बालरूपधराय च
बालानुचरगोप्त्राय बालक्रीडनकाय च
नमो वृद्धाय लुब्धाय क्षुब्धाय क्षोभणाय च
तरङ्गाङ्कितकेशाय मुञ्जकेशाय वै नमः
नमः षट्कर्णतुष्टाय त्रिकर्मनिरताय च
वर्णाश्रमाणां विधिवत् पृथक्कर्मनिवर्तिने
नमो घुष्याय घोषाय नमः कलकलाय च
श्वेतपिङ्गलनेत्राय कृष्णरक्तेक्षणाय च
प्राणभग्नाय दण्डाय स्फोटनाय कृशाय च
धर्मार्थकाममोक्षाणां कथ्याय कथनाय च
सांख्याय सांख्यमुख्याय सांख्ययोगप्रवर्तिने
नमो रथ्यविरथ्याय चतुष्पथरथाय च
कृष्णाजिनोत्तरीयाय व्यालयज्ञोपवीतिने
ईशान वज्रसंघात हरिकेश नमो ऽस्तु ते
त्र्यम्बकाम्बिकनाथाय व्यक्ताव्यक्त नमो ऽस्तु ते
काम कामद कामघ्न तृप्तातृप्तविचारिणे
सर्व सर्वद सर्वघ्न संध्याराग नमो ऽस्तु ते
महाबल महाबाहो महासत्त्व महाद्युते
महामेघचयप्रख्य महाकाल नमो ऽस्तु ते
स्थूलजीर्णाङ्गजटिले वल्कलाजिनधारिणे
दीप्तसूर्याग्निजटिले वल्कलाजिनवाससे
सहस्रसूर्यप्रतिम तपोनित्य नमो ऽस्तु ते
उन्मादन शतावर्त गङ्गातोयार्द्रमूर्धज
चन्द्रावर्त युगावर्त मेघावर्त नमो ऽस्तु ते
त्वम् अन्नम् अन्नभोक्ता च अन्नदो ऽन्नभुग् एव
अन्नस्रष्टा च पक्ता च पक्वभुक् पवनो ऽनलः
जरायुजाण्डजाश् चैव स्वेदजाश् च तथोद्भिजाः
त्वम् एव देवदेवेश भूतग्रामश् चतुर्विधः
चराचरस्य स्रष्टा त्वं प्रतिहर्ता तथैव च
त्वाम् आहुर् ब्रह्मविदुषो ब्रह्म ब्रह्मविदां वर
मनसः परमा योनिः खं वायुर् ज्योतिषां निधिः
ऋक्सामानि तथोंकारम् आहुस् त्वां ब्रह्मवादिनः
हायिहायि हुवाहायि हावुहायि तथासकृत्
गायन्ति त्वां सुरश्रेष्ठ सामगा ब्रह्मवादिनः
यजुर्मयो ऋङ्मयश् च त्वाम् आहुतिमयस् तथा
पठ्यसे स्तुतिभिस् त्वं हि वेदोपनिषदां गणैः
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा वर्णावराश् च ये
त्वम् एव मेघसंघाश् च विद्युत्स्तनितगर्जितः
संवत्सरस् त्वम् ऋतवो मासो मासार्धम् एव च
युगा निमेषाः काष्ठास् त्वं नक्षत्राणि ग्रहाः कलाः
वृक्षाणां ककुदो ऽसि त्वं गिरीणां शिखराणि च
व्याघ्रो मृगाणां पततां तार्क्ष्यो ऽनन्तश् च भोगिनाम्
क्षीरोदो ह्य् उदधीनां च यन्त्राणां धनुर् एव च
वज्रः प्रहरणानां च व्रतानां सत्यम् एव च
त्वम् एव द्वेष इच्छा च रागो मोहः क्षमाक्षमे
व्यवसायो धृतिर् लोभः कामक्रोधौ जयाजयौ
त्वं गदी त्वं शरी चापी खट्वाङ्गी झर्झरी तथा
छेत्ता भेत्ता प्रहर्ता त्वं नेता मन्ता पिता मतः
दशलक्षणसंयुक्तो धर्मो ऽर्थः काम एव च
गङ्गा समुद्राः सरितः पल्वलानि सरांसि च
लता वल्ल्यस् तृणौषध्यः पशवो मृगपक्षिणः
द्रव्यकर्मगुणारम्भः कालपुष्पफलप्रदः
आदिश् चान्तश् च देवानां गायत्र्य् ओंकार एव च
हरितो लोहितो नीलः कृष्णो रक्तस् तथारुणः
कद्रुश् च कपिलश् चैव कपोतो मेचकस् तथा
अवर्णश् च सुवर्णश् च वर्णकारो ह्य् अनौपमः
सुवर्णनामा च तथा सुवर्णप्रिय एव च
त्वम् इन्द्रश् च यमश् चैव वरुणो धनदो ऽनलः
उपप्लवश् चित्रभानुः स्वर्भानुर् भानुर् एव च
होत्रं होता च होम्यं च हुतं चैव तथा प्रभुः
त्रिसौपर्णं तथा ब्रह्म यजुषां शतरुद्रियम्
पवित्रं च पवित्राणां मङ्गलानां च मङ्गलम्
गिरिको हिण्डुको वृक्षो जीवः पुद्गल एव च
प्राणः सत्त्वं रजश् चैव तमश् चाप्रमदस् तथा
प्राणो ऽपानः समानश् च उदानो व्यान एव च
उन्मेषश् च निमेषश् च क्षुतं जृम्भितम् एव च
लोहितान्तर्गता दृष्टिर् महावक्त्रो महोदरः
शुचिरोमा हरिश्मश्रुर् ऊर्ध्वकेशश् चलाचलः
गीतवादित्रतत्त्वज्ञो गीतवादनकप्रियः
मत्स्यो जलचरो जाल्यो ऽकलः केलिकलः कलिः
अकालश् चातिकालश् च दुष्कालः काल एव च
मृत्युः क्षुरश् च कृत्यश् च पक्षो ऽपक्षक्षयंकरः
मेघकालो महादंष्ट्रः संवर्तकबलाहकः
घण्टो ऽघण्टो घटी घण्टी चरुचेली मिलीमिली
ब्रह्मकायिकम् अग्नीनां दण्डी मुण्डस् त्रिदण्डधृक्
चतुर्युगश् चतुर्वेदश् चातुर्होत्रप्रवर्तकः
चातुराश्रम्यनेता च चातुर्वर्ण्यकरश् च यः
सदा चाक्षप्रियो धूर्तो गणाध्यक्षो गणाधिपः
रक्तमाल्याम्बरधरो गिरिशो गिरिकप्रियः
शिल्पिकः शिल्पिनां श्रेष्ठः सर्वशिल्पप्रवर्तकः
भगनेत्राङ्कुशश् चण्डः पूष्णो दन्तविनाशनः
स्वाहा स्वधा वषट्कारो नमस्कारो नमो नमः
गूढव्रतो गुह्यतपास् तारकस् तारकामयः
धाता विधाता संधाता विधाता धारणो ऽधरः
ब्रह्मा तपश् च सत्यं च ब्रह्मचर्यम् अथार्जवम्
भूतात्मा भूतकृद् भूतो भूतभव्यभवोद्भवः
भूर् भुवः स्वरितश् चैव ध्रुवो दान्तो महेश्वरः
दीक्षितो ऽदीक्षितः क्षान्तो दुर्दान्तो ऽदान्तनाशनः
चन्द्रावर्तो युगावर्तः संवर्तः संप्रवर्तकः
कामो बिन्दुर् अणुः स्थूलः कर्णिकारस्रजप्रियः
नन्दीमुखो भीममुखः सुमुखो दुर्मुखो ऽमुखः
चतुर्मुखो बहुमुखो रणेष्व् अग्निमुखस् तथा
हिरण्यगर्भः शकुनिर् महोरगपतिर् विराट्
अधर्महा महापार्श्वो दण्डधारो रणप्रियः
गोनर्दो गोप्रतारश् च गोवृषेश्वरवाहनः
त्रैलोक्यगोप्ता गोविन्दो गोमार्गो ऽमार्ग एव च
श्रेष्ठः स्थिरश् च स्थाणुश् च निष्कम्पः कम्प एव च
दुर्वारणो दुर्विषहो दुःसहो दुरतिक्रमः
दुर्धर्षो दुष्प्रकम्पश् च दुर्विषो दुर्जयो जयः
शशः शशाङ्कः शमनः शीतोष्णक्षुज्जराधिधृक्
आधयो व्याधयश् चैव व्याधिहा व्याधिर् एव च
मम यज्ञमृगव्याधो व्याधीनाम् आगमो गमः
शिखण्डी पुण्डरीकाक्षः पुण्डरीकवनालयः
दण्डधारस् त्र्यम्बकश् च उग्रदण्डो ऽण्डनाशनः
विषाग्निपाः सुरश्रेष्ठः सोमपास् त्वं मरुत्पतिः
अमृतपास् त्वं जगन्नाथ देवदेव गणेश्वरः
विषाग्निपा मृत्युपाश् च क्षीरपाः सोमपास् तथा
मधुश्च्युतानाम् अग्रपास् त्वम् एव तुषिताज्यपाः
हिरण्यरेताः पुरुषस् त्वम् एव
त्वं स्त्री पुमांस् त्वं च नपुंसकं च
बालो युवा स्थविरो जीर्णदंष्ट्रो
नागेन्द्रशत्रुर् विश्वकर्ता वरेण्यः
त्वं विश्वबाहुस् तेजस्वी विश्वतोमुखश्
चन्द्रादित्यौ हृदयं च पितामहः
सरस्वती वाग्बलम् उत्तमो ऽनिलः
अहोरात्रो निमेषोन्मेषकर्ता
न ब्रह्मा न च गोविन्दः पौराणा ऋषयो न ते
माहात्म्यं वेदितुं शक्ता याथातथ्येन ते शिव
या मूर्तयः सुसूक्ष्मास् ते न मह्यं यान्ति दर्शनम्
त्राहि मां सततं रक्ष पिता पुत्रम् इवौरसम्
रक्ष मां रक्षणीयो ऽहं तवानघ नमो ऽस्तु ते
भक्तानुकम्पी भगवान् भक्तश् चाहं सदा त्वयि
यः सहस्राण्य् अनेकानि पुंसाम् आवृत्य दुर्दृशः
तिष्ठत्य् एकः समुद्रान्ते स मे गोप्तास् तु नित्यशः
यं विनिद्रा जितश्वासाः सत्त्वस्थाः समदर्शिनः
ज्योतिः पश्यन्ति युञ्जानास् तस्मै योगात्मने नमः
जटिले दण्डिने नित्यं लम्बोदरशरीरिणे
कमण्डलुनिषङ्गाय तस्मै रुद्रात्मने नमः
यस्य केशेषु जीमूता नद्यः सर्वाङ्गसंधिषु
कुक्षौ समुद्राश् चत्वारस् तस्मै तोयात्मने नमः
संभक्ष्य सर्वभूतानि युगान्ते पर्युपस्थिते
यः शेते जलमध्यस्थस् तं प्रपद्ये ऽम्बुशायिनम्
प्रविश्य वदनं राहोर् यः सोमं पिबते निशि
ग्रसत्य् अर्कं च स्वर्भानुर् भूत्वा मां सो ऽभिरक्षतु
ये चानुपतिता गर्भा यथाभागानुपासते
नमस् तेभ्यः स्वधा स्वाहा प्राप्नुवन्तु मुदन्तु ते
ये ऽङ्गुष्ठमात्राः पुरुषा देहस्थाः सर्वदेहिनाम्
रक्षन्तु ते हि मां नित्यं नित्यं चाप्याययन्तु च
ये न रोदन्ति देहस्था देहिनो रोदयन्ति च
हर्षयन्ति न हृष्यन्ति नमस् तेभ्यो ऽस्तु नित्यशः
ये नदीषु समुद्रेषु पर्वतेषु गुहासु च
वृक्षमूलेषु गोष्ठेषु कान्तारगहनेषु च
चतुष्पथेषु रथ्यासु चत्वरेषु तटेषु च
हस्त्यश्वरथशालासु जीर्णोद्यानालयेषु च
ये च पञ्चसु भूतेषु दिशासु विदिशासु च
चन्द्रार्कयोर् मध्यगता ये च चन्द्रार्करश्मिषु
रसातलगता ये च ये च तस्मै परं गताः
नमस् तेभ्यो नमस् तेभ्यो नमस् तेभ्यो ऽस्तु नित्यशः
येषां न विद्यते संख्या प्रमाणं रूपम् एव च
असंख्येयगुणा रुद्रा नमस् तेभ्यो ऽस्तु नित्यशः
सर्वभूतकरो यस्मात् सर्वभूतपतिर् हरः
सर्वभूतान्तरात्मा च तेन त्वं न निमन्त्रितः
त्वम् एव हीज्यसे यस्माद् यज्ञैर् विविधदक्षिणैः
त्वम् एव कर्ता सर्वस्य तेन त्वं न निमन्त्रितः
अथ वा मायया देव सूक्ष्मया तव मोहितः
एतस्मात् कारणाद् वापि तेन त्वं न निमन्त्रितः
प्रसीद मम भद्रं ते तव भावगतस्य मे
त्वयि मे हृदयं देव त्वयि बुद्धिर् मनस् त्वयि
स्तुत्वैवं स महादेवं विरराम प्रजापतिः
भगवान् अपि सुप्रीतः पुनर् दक्षम् अभाषत
परितुष्टो ऽस्मि ते दक्ष स्तवेनानेन सुव्रत
बहुनात्र किम् उक्तेन मत्समीपे भविष्यसि
अश्वमेधसहस्रस्य वाजपेयशतस्य च
प्रजापते मत्प्रसादात् फलभागी भविष्यसि
अथैनम् अब्रवीद् वाक्यं त्रैलोक्याधिपतिर् भवः
आश्वासनकरं वाक्यं वाक्यविद् वाक्यसंमितम्
दक्ष दक्ष न कर्तव्यो मन्युर् विघ्नम् इमं प्रति
अहं यज्ञहरस् तुभ्यं दृष्टम् एतत् पुरातनम्
भूयश् च ते वरं दद्मि तं त्वं गृह्णीष्व सुव्रत
प्रसन्नवदनो भूत्वा तद् इहैकमनाः शृणु
वेदात् षडङ्गाद् उद्धृत्य सांख्ययोगाच् च युक्तितः
तपः सुतप्तं विपुलं दुश्चरं देवदानवैः
अपूर्वं सर्वतोभद्रं विश्वतोमुखम् अव्ययम्
अब्दैर् दशाहसंयुक्तं गूढम् अप्राज्ञनिन्दितम्
वर्णाश्रमकृतैर् धर्मैर् विपरीतं क्व चित् समम्
गतान्तैर् अध्यवसितम् अत्याश्रमम् इदं व्रतम्
मया पाशुपतं दक्ष योगम् उत्पादितं पुरा
तस्य चीर्णस्य तत् सम्यक् फलं भवति पुष्कलम्
तच् चास्तु ते महाभाग त्यज्यतां मानसो ज्वरः
एवम् उक्त्वा महादेवः सपत्नीको वृषध्वजः
अदर्शनम् अनुप्राप्तो दक्षस्यामितविक्रमः
दक्षप्रोक्तं स्तवम् इमं कीर्तयेद् यः शृणोति वा
नाशुभं प्राप्नुयात् किं चिद् दीर्घम् आयुर् अवाप्नुयात्
यथा सर्वेषु देवेषु वरिष्ठो भगवाञ् शिवः
तथा स्तवो वरिष्ठो ऽयं स्तवानां ब्रह्मसंमितः
यशोराज्यसुखैश्वर्यकामार्थधनकाङ्क्षिभिः
श्रोतव्यो भक्तिम् आस्थाय विद्याकामैश् च यत्नतः
व्याधितो दुःखितो दीनश् चोरग्रस्तो भयार्दितः
राजकार्याभियुक्तो वा मुच्यते महतो भयात्
अनेनैव तु देहेन गणानां समतां व्रजेत्
तेजसा यशसा चैव युक्तो भवति निर्मलः
न राक्षसाः पिशाचा वा न भूता न विनायकाः
विघ्नं कुर्युर् गृहे तस्य यत्रायं पठ्यते स्तवः
शृणुयाच् चैव या नारी तद्भक्ता ब्रह्मचारिणी
पितृपक्षे मातृपक्षे पूज्या भवति देववत्
शृणुयाद् यः स्तवं कृत्स्नं कीर्तयेद् वा समाहितः
तस्य सर्वाणि कर्माणि सिद्धिं गच्छन्त्य् अभीक्ष्णशः
मनसा चिन्तितं यच् च यच् च वाचानुकीर्तितम्
सर्वं संपद्यते तस्य स्तवस्यास्यानुकीर्तनात्
देवस्य च सगुहस्य देव्या नन्दीश्वरस्य च
बलिं सुविहितं कृत्वा दमेन नियमेन च
ततस् तु युक्तो गृह्णीयान् नामान्य् आशु यथाक्रमम्
ईप्सिता&ल् लभते सो ऽर्थान् कामान् भोगांश् च मानवः
मृतश् च स्वर्गम् आप्नोति तिर्यक्षु च न जायते
इत्य् आह भगवान् व्यासः पराशरसुतः प्रभुः
dakṣa uvāca
namas te devadeveśa devāribalasūdana
devendrabalaviṣṭambha devadānavapūjita
sahasrākṣa virūpākṣa tryakṣa yakṣādhipa priya
sarvataḥpāṇipādānta sarvatokṣiśiromukha
sarvataḥśrutimal loke sarvam āvṛtya tiṣṭhasi
śaṅkukarṇa mahākarṇa kumbhakarṇārṇavālaya
gajendrakarṇa gokarṇa pāṇikarṇa namo ‘stu te
śatodara śatāvarta śatajihva śatānana
gāyanti tvāṃ gāyatriṇo arcayanty arkam arkiṇaḥ
brahmāṇaṃ tvāṃ śatakratum ūrdhvaṃ kham iva menire
mūrtau hi te mahāmūrte samudrāmbarasaṃnibha
sarvā vai devatā hy asmin gāvo goṣṭha ivāsate
bhavaccharīre paśyāmi somam agniṃ jaleśvaram
ādityam atha vai viṣṇuṃ brahmāṇaṃ ca bṛhaspatim
bhagavān kāraṇaṃ kāryaṃ kriyā karaṇam eva ca
asataś ca sataś caiva tathaiva prabhavāpyayau
namo bhavāya śarvāya rudrāya varadāya ca
paśūnāṃ pataye caiva namo ‘stv andhakaghātine
trijaṭāya triśīrṣāya triśūlavarapāṇine
tryambakāya trinetrāya tripuraghnāya vai namaḥ
namaś caṇḍāya muṇḍāya aṇḍāyāṇḍadharāya ca
daṇḍine samakarṇāya daṇḍimuṇḍāya vai namaḥ
namordhvadaṃṣṭrakeśāya śuklāyāvatatāya ca
vilohitāya dhūmrāya nīlagrīvāya vai namaḥ
namo ‘stv apratirūpāya virūpāya śivāya ca
sūryāya sūryamālāya sūryadhvajapatākine
namaḥ pramathanāthāya vṛṣaskandhāya dhanvine
śatruṃdamāya daṇḍāya parṇacīrapaṭāya ca
namo hiraṇyagarbhāya hiraṇyakavacāya ca
hiraṇyakṛtacūḍāya hiraṇyapataye namaḥ
namaḥ stutāya stutyāya stūyamānāya vai namaḥ
sarvāya sarvabhakṣāya sarvabhūtāntarātmane
namo hotre ‘tha mantrāya śukladhvajapatākine
namo nābhāya nābhyāya namaḥ kaṭakaṭāya ca
namo ‘stu kṛśanāsāya kṛśāṅgāya kṛśāya ca
saṃhṛṣṭāya vihṛṣṭāya namaḥ kilakilāya ca
namo ‘stu śayamānāya śayitāyotthitāya ca
sthitāya dhāvamānāya muṇḍāya jaṭilāya ca
namo nartanaśīlāya mukhavāditravādine
nādyopahāralubdhāya gītavāditraśāline
namo jyeṣṭhāya śreṣṭhāya balapramathanāya ca
kālanāthāya kalyāya kṣayāyopakṣayāya ca
bhīmadundubhihāsāya bhīmavratadharāya ca
ugrāya ca namo nityaṃ namo ‘stu daśabāhave
namaḥ kapālahastāya citibhasmapriyāya ca
vibhīṣaṇāya bhīṣmāya bhīmavratadharāya ca
namo vikṛtavaktrāya khaḍgajihvāya daṃṣṭriṇe
pakvāmamāṃsalubdhāya tumbīvīṇāpriyāya ca
namo vṛṣāya vṛṣyāya govṛṣāya vṛṣāya ca
kaṭaṃkaṭāya caṇḍāya namaḥ pacapacāya ca
namaḥ sarvavariṣṭhāya varāya varadāya ca
varamālyagandhavastrāya varātivarade namaḥ
namo raktaviraktāya bhāvanāyākṣamāline
saṃbhinnāya vibhinnāya chāyāyātapanāya ca
aghoraghorarūpāya ghoraghoratarāya ca
namaḥ śivāya śāntāya namaḥ śāntatamāya ca
ekapād bahunetrāya ekaśīrṣa namo namaḥ
namaḥ kṣudrāya lubdhāya saṃvibhāgapriyāya ca
pañcālāya sitāṅgāya namaḥ śamaśamāya ca
namaś caṇḍikaghaṇṭāya ghaṇṭāyāghaṇṭaghaṇṭine
sahasraśataghaṇṭāya ghaṇṭāmālāpriyāya ca
prāṇaghaṇṭāya gandhāya namaḥ kalakalāya ca
hūṃhūṃhūṃkārapārāya hūṃhūṃkārapriyāya ca
namaḥ śamaśame nityaṃ girivṛkṣālayāya ca
garbhamāṃsaśṛgālāya tārakāya tarāya ca
namo yajñāya yajine hutāya prahutāya ca
yajñavāhāya dāntāya tapyāyātapanāya ca
namas taṭāya taṭyāya taṭānāṃ pataye namaḥ
annadāyānnapataye namas tv annabhuje tathā
namaḥ sahasraśīrṣāya sahasracaraṇāya ca
sahasrodyataśūlāya sahasranayanāya ca
namo bālārkavarṇāya bālarūpadharāya ca
bālānucaragoptrāya bālakrīḍanakāya ca
namo vṛddhāya lubdhāya kṣubdhāya kṣobhaṇāya ca
taraṅgāṅkitakeśāya muñjakeśāya vai namaḥ
namaḥ ṣaṭkarṇatuṣṭāya trikarmaniratāya ca
varṇāśramāṇāṃ vidhivat pṛthakkarmanivartine
namo ghuṣyāya ghoṣāya namaḥ kalakalāya ca
śvetapiṅgalanetrāya kṛṣṇaraktekṣaṇāya ca
prāṇabhagnāya daṇḍāya sphoṭanāya kṛśāya ca
dharmārthakāmamokṣāṇāṃ kathyāya kathanāya ca
sāṃkhyāya sāṃkhyamukhyāya sāṃkhyayogapravartine
namo rathyavirathyāya catuṣpatharathāya ca
kṛṣṇājinottarīyāya vyālayajñopavītine
īśāna vajrasaṃghāta harikeśa namo ‘stu te
tryambakāmbikanāthāya vyaktāvyakta namo ‘stu te
kāma kāmada kāmaghna tṛptātṛptavicāriṇe
sarva sarvada sarvaghna saṃdhyārāga namo ‘stu te
mahābala mahābāho mahāsattva mahādyute
mahāmeghacayaprakhya mahākāla namo ‘stu te
sthūlajīrṇāṅgajaṭile valkalājinadhāriṇe
dīptasūryāgnijaṭile valkalājinavāsase
sahasrasūryapratima taponitya namo ‘stu te
unmādana śatāvarta gaṅgātoyārdramūrdhaja
candrāvarta yugāvarta meghāvarta namo ‘stu te
tvam annam annabhoktā ca annado ‘nnabhug eva
annasraṣṭā ca paktā ca pakvabhuk pavano ‘nalaḥ
jarāyujāṇḍajāś caiva svedajāś ca tathodbhijāḥ
tvam eva devadeveśa bhūtagrāmaś caturvidhaḥ
carācarasya sraṣṭā tvaṃ pratihartā tathaiva ca
tvām āhur brahmaviduṣo brahma brahmavidāṃ vara
manasaḥ paramā yoniḥ khaṃ vāyur jyotiṣāṃ nidhiḥ
ṛksāmāni tathoṃkāram āhus tvāṃ brahmavādinaḥ
hāyihāyi huvāhāyi hāvuhāyi tathāsakṛt
gāyanti tvāṃ suraśreṣṭha sāmagā brahmavādinaḥ
yajurmayo ṛṅmayaś ca tvām āhutimayas tathā
paṭhyase stutibhis tvaṃ hi vedopaniṣadāṃ gaṇaiḥ
brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrā varṇāvarāś ca ye
tvam eva meghasaṃghāś ca vidyutstanitagarjitaḥ
saṃvatsaras tvam ṛtavo māso māsārdham eva ca
yugā nimeṣāḥ kāṣṭhās tvaṃ nakṣatrāṇi grahāḥ kalāḥ
vṛkṣāṇāṃ kakudo ‘si tvaṃ girīṇāṃ śikharāṇi ca
vyāghro mṛgāṇāṃ patatāṃ tārkṣyo ‘nantaś ca bhoginām
kṣīrodo hy udadhīnāṃ ca yantrāṇāṃ dhanur eva ca
vajraḥ praharaṇānāṃ ca vratānāṃ satyam eva ca
tvam eva dveṣa icchā ca rāgo mohaḥ kṣamākṣame
vyavasāyo dhṛtir lobhaḥ kāmakrodhau jayājayau
tvaṃ gadī tvaṃ śarī cāpī khaṭvāṅgī jharjharī tathā
chettā bhettā prahartā tvaṃ netā mantā pitā mataḥ
daśalakṣaṇasaṃyukto dharmo ‘rthaḥ kāma eva ca
gaṅgā samudrāḥ saritaḥ palvalāni sarāṃsi ca
latā vallyas tṛṇauṣadhyaḥ paśavo mṛgapakṣiṇaḥ
dravyakarmaguṇārambhaḥ kālapuṣpaphalapradaḥ
ādiś cāntaś ca devānāṃ gāyatry oṃkāra eva ca
harito lohito nīlaḥ kṛṣṇo raktas tathāruṇaḥ
kadruś ca kapilaś caiva kapoto mecakas tathā
avarṇaś ca suvarṇaś ca varṇakāro hy anaupamaḥ
suvarṇanāmā ca tathā suvarṇapriya eva ca
tvam indraś ca yamaś caiva varuṇo dhanado ‘nalaḥ
upaplavaś citrabhānuḥ svarbhānur bhānur eva ca
hotraṃ hotā ca homyaṃ ca hutaṃ caiva tathā prabhuḥ
trisauparṇaṃ tathā brahma yajuṣāṃ śatarudriyam
pavitraṃ ca pavitrāṇāṃ maṅgalānāṃ ca maṅgalam
giriko hiṇḍuko vṛkṣo jīvaḥ pudgala eva ca
prāṇaḥ sattvaṃ rajaś caiva tamaś cāpramadas tathā
prāṇo ‘pānaḥ samānaś ca udāno vyāna eva ca
unmeṣaś ca nimeṣaś ca kṣutaṃ jṛmbhitam eva ca
lohitāntargatā dṛṣṭir mahāvaktro mahodaraḥ
śuciromā hariśmaśrur ūrdhvakeśaś calācalaḥ
gītavāditratattvajño gītavādanakapriyaḥ
matsyo jalacaro jālyo ‘kalaḥ kelikalaḥ kaliḥ
akālaś cātikālaś ca duṣkālaḥ kāla eva ca
mṛtyuḥ kṣuraś ca kṛtyaś ca pakṣo ‘pakṣakṣayaṃkaraḥ
meghakālo mahādaṃṣṭraḥ saṃvartakabalāhakaḥ
ghaṇṭo ‘ghaṇṭo ghaṭī ghaṇṭī carucelī milīmilī
brahmakāyikam agnīnāṃ daṇḍī muṇḍas tridaṇḍadhṛk
caturyugaś caturvedaś cāturhotrapravartakaḥ
cāturāśramyanetā ca cāturvarṇyakaraś ca yaḥ
sadā cākṣapriyo dhūrto gaṇādhyakṣo gaṇādhipaḥ
raktamālyāmbaradharo giriśo girikapriyaḥ
śilpikaḥ śilpināṃ śreṣṭhaḥ sarvaśilpapravartakaḥ
bhaganetrāṅkuśaś caṇḍaḥ pūṣṇo dantavināśanaḥ
svāhā svadhā vaṣaṭkāro namaskāro namo namaḥ
gūḍhavrato guhyatapās tārakas tārakāmayaḥ
dhātā vidhātā saṃdhātā vidhātā dhāraṇo ‘dharaḥ
brahmā tapaś ca satyaṃ ca brahmacaryam athārjavam
bhūtātmā bhūtakṛd bhūto bhūtabhavyabhavodbhavaḥ
bhūr bhuvaḥ svaritaś caiva dhruvo dānto maheśvaraḥ
dīkṣito ‘dīkṣitaḥ kṣānto durdānto ‘dāntanāśanaḥ
candrāvarto yugāvartaḥ saṃvartaḥ saṃpravartakaḥ
kāmo bindur aṇuḥ sthūlaḥ karṇikārasrajapriyaḥ
nandīmukho bhīmamukhaḥ sumukho durmukho ‘mukhaḥ
caturmukho bahumukho raṇeṣv agnimukhas tathā
hiraṇyagarbhaḥ śakunir mahoragapatir virāṭ
adharmahā mahāpārśvo daṇḍadhāro raṇapriyaḥ
gonardo gopratāraś ca govṛṣeśvaravāhanaḥ
trailokyagoptā govindo gomārgo ‘mārga eva ca
śreṣṭhaḥ sthiraś ca sthāṇuś ca niṣkampaḥ kampa eva ca
durvāraṇo durviṣaho duḥsaho duratikramaḥ
durdharṣo duṣprakampaś ca durviṣo durjayo jayaḥ
śaśaḥ śaśāṅkaḥ śamanaḥ śītoṣṇakṣujjarādhidhṛk
ādhayo vyādhayaś caiva vyādhihā vyādhir eva ca
mama yajñamṛgavyādho vyādhīnām āgamo gamaḥ
śikhaṇḍī puṇḍarīkākṣaḥ puṇḍarīkavanālayaḥ
daṇḍadhāras tryambakaś ca ugradaṇḍo ‘ṇḍanāśanaḥ
viṣāgnipāḥ suraśreṣṭhaḥ somapās tvaṃ marutpatiḥ
amṛtapās tvaṃ jagannātha devadeva gaṇeśvaraḥ
viṣāgnipā mṛtyupāś ca kṣīrapāḥ somapās tathā
madhuścyutānām agrapās tvam eva tuṣitājyapāḥ
hiraṇyaretāḥ puruṣas tvam eva
tvaṃ strī pumāṃs tvaṃ ca napuṃsakaṃ ca
bālo yuvā sthaviro jīrṇadaṃṣṭro
nāgendraśatrur viśvakartā vareṇyaḥ
tvaṃ viśvabāhus tejasvī viśvatomukhaś
candrādityau hṛdayaṃ ca pitāmahaḥ
sarasvatī vāgbalam uttamo ‘nilaḥ
ahorātro nimeṣonmeṣakartā
na brahmā na ca govindaḥ paurāṇā ṛṣayo na te
māhātmyaṃ vedituṃ śaktā yāthātathyena te śiva
yā mūrtayaḥ susūkṣmās te na mahyaṃ yānti darśanam
trāhi māṃ satataṃ rakṣa pitā putram ivaurasam
rakṣa māṃ rakṣaṇīyo ‘haṃ tavānagha namo ‘stu te
bhaktānukampī bhagavān bhaktaś cāhaṃ sadā tvayi
yaḥ sahasrāṇy anekāni puṃsām āvṛtya durdṛśaḥ
tiṣṭhaty ekaḥ samudrānte sa me goptās tu nityaśaḥ
yaṃ vinidrā jitaśvāsāḥ sattvasthāḥ samadarśinaḥ
jyotiḥ paśyanti yuñjānās tasmai yogātmane namaḥ
jaṭile daṇḍine nityaṃ lambodaraśarīriṇe
kamaṇḍaluniṣaṅgāya tasmai rudrātmane namaḥ
yasya keśeṣu jīmūtā nadyaḥ sarvāṅgasaṃdhiṣu
kukṣau samudrāś catvāras tasmai toyātmane namaḥ
saṃbhakṣya sarvabhūtāni yugānte paryupasthite
yaḥ śete jalamadhyasthas taṃ prapadye ‘mbuśāyinam
praviśya vadanaṃ rāhor yaḥ somaṃ pibate niśi
grasaty arkaṃ ca svarbhānur bhūtvā māṃ so ‘bhirakṣatu
ye cānupatitā garbhā yathābhāgānupāsate
namas tebhyaḥ svadhā svāhā prāpnuvantu mudantu te
ye ‘ṅguṣṭhamātrāḥ puruṣā dehasthāḥ sarvadehinām
rakṣantu te hi māṃ nityaṃ nityaṃ cāpyāyayantu ca
ye na rodanti dehasthā dehino rodayanti ca
harṣayanti na hṛṣyanti namas tebhyo ‘stu nityaśaḥ
ye nadīṣu samudreṣu parvateṣu guhāsu ca
vṛkṣamūleṣu goṣṭheṣu kāntāragahaneṣu ca
catuṣpatheṣu rathyāsu catvareṣu taṭeṣu ca
hastyaśvarathaśālāsu jīrṇodyānālayeṣu ca
ye ca pañcasu bhūteṣu diśāsu vidiśāsu ca
candrārkayor madhyagatā ye ca candrārkaraśmiṣu
rasātalagatā ye ca ye ca tasmai paraṃ gatāḥ
namas tebhyo namas tebhyo namas tebhyo ‘stu nityaśaḥ
yeṣāṃ na vidyate saṃkhyā pramāṇaṃ rūpam eva ca
asaṃkhyeyaguṇā rudrā namas tebhyo ‘stu nityaśaḥ
sarvabhūtakaro yasmāt sarvabhūtapatir haraḥ
sarvabhūtāntarātmā ca tena tvaṃ na nimantritaḥ
tvam eva hījyase yasmād yajñair vividhadakṣiṇaiḥ
tvam eva kartā sarvasya tena tvaṃ na nimantritaḥ
atha vā māyayā deva sūkṣmayā tava mohitaḥ
etasmāt kāraṇād vāpi tena tvaṃ na nimantritaḥ
prasīda mama bhadraṃ te tava bhāvagatasya me
tvayi me hṛdayaṃ deva tvayi buddhir manas tvayi
stutvaivaṃ sa mahādevaṃ virarāma prajāpatiḥ
bhagavān api suprītaḥ punar dakṣam abhāṣata
parituṣṭo ‘smi te dakṣa stavenānena suvrata
bahunātra kim uktena matsamīpe bhaviṣyasi
aśvamedhasahasrasya vājapeyaśatasya ca
prajāpate matprasādāt phalabhāgī bhaviṣyasi
athainam abravīd vākyaṃ trailokyādhipatir bhavaḥ
āśvāsanakaraṃ vākyaṃ vākyavid vākyasaṃmitam
dakṣa dakṣa na kartavyo manyur vighnam imaṃ prati
ahaṃ yajñaharas tubhyaṃ dṛṣṭam etat purātanam
bhūyaś ca te varaṃ dadmi taṃ tvaṃ gṛhṇīṣva suvrata
prasannavadano bhūtvā tad ihaikamanāḥ śṛṇu
vedāt ṣaḍaṅgād uddhṛtya sāṃkhyayogāc ca yuktitaḥ
tapaḥ sutaptaṃ vipulaṃ duścaraṃ devadānavaiḥ
apūrvaṃ sarvatobhadraṃ viśvatomukham avyayam
abdair daśāhasaṃyuktaṃ gūḍham aprājñaninditam
varṇāśramakṛtair dharmair viparītaṃ kva cit samam
gatāntair adhyavasitam atyāśramam idaṃ vratam
mayā pāśupataṃ dakṣa yogam utpāditaṃ purā
tasya cīrṇasya tat samyak phalaṃ bhavati puṣkalam
tac cāstu te mahābhāga tyajyatāṃ mānaso jvaraḥ
evam uktvā mahādevaḥ sapatnīko vṛṣadhvajaḥ
adarśanam anuprāpto dakṣasyāmitavikramaḥ
dakṣaproktaṃ stavam imaṃ kīrtayed yaḥ śṛṇoti vā
nāśubhaṃ prāpnuyāt kiṃ cid dīrgham āyur avāpnuyāt
yathā sarveṣu deveṣu variṣṭho bhagavāñ śivaḥ
tathā stavo variṣṭho ‘yaṃ stavānāṃ brahmasaṃmitaḥ
yaśorājyasukhaiśvaryakāmārthadhanakāṅkṣibhiḥ
śrotavyo bhaktim āsthāya vidyākāmaiś ca yatnataḥ
vyādhito duḥkhito dīnaś coragrasto bhayārditaḥ
rājakāryābhiyukto vā mucyate mahato bhayāt
anenaiva tu dehena gaṇānāṃ samatāṃ vrajet
tejasā yaśasā caiva yukto bhavati nirmalaḥ
na rākṣasāḥ piśācā vā na bhūtā na vināyakāḥ
vighnaṃ kuryur gṛhe tasya yatrāyaṃ paṭhyate stavaḥ
śṛṇuyāc caiva yā nārī tadbhaktā brahmacāriṇī
pitṛpakṣe mātṛpakṣe pūjyā bhavati devavat
śṛṇuyād yaḥ stavaṃ kṛtsnaṃ kīrtayed vā samāhitaḥ
tasya sarvāṇi karmāṇi siddhiṃ gacchanty abhīkṣṇaśaḥ
manasā cintitaṃ yac ca yac ca vācānukīrtitam
sarvaṃ saṃpadyate tasya stavasyāsyānukīrtanāt
devasya ca saguhasya devyā nandīśvarasya ca
baliṃ suvihitaṃ kṛtvā damena niyamena ca
tatas tu yukto gṛhṇīyān nāmāny āśu yathākramam
īpsitā&l labhate so ‘rthān kāmān bhogāṃś ca mānavaḥ
mṛtaś ca svargam āpnoti tiryakṣu ca na jāyate
ity āha bhagavān vyāsaḥ parāśarasutaḥ prabhuḥ
One may also compare this with a similar sahasranAma stotra from the vAyu purANa(in its 30th adhyaya)
दक्ष उवाच
नमस्ते देवदेवेश देवारिबलसूदन
देवेन्द्र ह्यमरश्रेष्ठ देवदानवपूजित
सहस्राक्ष विरूपाक्ष त्र्यक्ष यक्षाधिपप्रिय
सर्वतः पाणिपादस्त्वं सर्वतोऽक्षिशिरोमुखः
सर्वतः श्रुतिमान् लोके सर्वानावृत्य तिष्ठसि
शङ्कुकर्ण महाकर्ण कुम्भकर्णार्णवालय
गजेन्द्रकर्ण गोकर्ण पाणिकर्ण नमोऽस्तु ते
शतोदर शतावर्त्त शतजिह्व शतानन
गायन्ति त्वां गायत्रिणो ह्यर्च्चयन्ति तथार्च्चिनः
देवदानवगोप्ता च ब्रह्मा च त्वं शतक्रतुः
मूर्त्तीशस्त्वं महामूर्ते समुद्राम्बु धराय च
सर्वा ह्यस्मिन् देवतास्ते गावो गोष्ठ इवासते
शरीरन्ते प्रपश्यामि सोममग्निं जलेश्वरम्
आदित्यमथ विष्णुञ्च ब्रह्माणं सबृहस्पतिम्
क्रिया कार्य्यं कारणञ्च कर्त्ता करणमेव च
असच्च सदसच्चैव तथैव प्रभवाव्ययम्
नमो भवाय शर्वाय रुद्राय वरदाय च
पशूनां पतये चैव नमस्त्वन्धकघातिने
त्रिजटाय त्रिशीर्षाय त्रिशूलवरधारिणे
त्र्यम्बकाय त्रिनेत्राय त्रिपुरघ्नाय वै नमः
नमश्चण्डाय मुण्डाय प्रचण्डाय धराय च
दण्डि मासक्तकर्णाय दण्डिमुण्डाय वै नमः
नमोऽर्द्धदण्डकेशाय निष्काय विकृताय च
विलोहिताय धूम्राय नीलग्रीवाय ते नमः
नमस्त्वप्रतिरूपाय शिवाय च नमोऽस्तु ते
सूर्य्याय सूर्य्यपतये सूर्य्यध्वजपताकिने
नमः प्रमथनाथाय वृषस्कन्धाय धन्विने
नमो हिरण्यगर्भाय हिरण्यकवचाय च
हिरण्यकृतचूडाय हिरण्यपतये नमः
सत्रघाताय दण्डाय वर्णपानपुटाय च
नमः स्तुताय स्तुत्याय स्तूयमानाय वै नमः
सर्वायाभक्ष्यभक्ष्याय सर्वभूतान्त्तरात्मने
नमो होत्राय मन्त्राय शुक्लध्वजपताकिने
नमो नमाय नम्याय नमः किलिकिलाय च
नमस्ते शयमानाय शयितायोत्थिताय च
स्थिताय चलमानाय मुद्राय कुटिलाय च
नमो नर्त्तनशीलाय मुखवादित्रकारिणे
नाट्योपहारलुब्धाय गीतवाद्यरताय च
नमो ज्येष्ठाय श्रेष्ठाय बलप्रमथनाय च
कलनाय च कल्पाय क्षयायोपक्षयाय च
भीमदुन्दुभिहासाय भीमसेनप्रियाय च
उग्राय च नमो नित्यं नमस्ते दशबाहवे
नमः कपालहस्ताय चिताभस्मप्रियाय च
विभीषणाय भीष्माय भीष्मव्रतधराय च
नमो विकृतवक्षाय खड्गजिह्वाग्रदंष्ट्रिणे
पक्वाममांसलुब्धाय तुम्बवीणाप्रियाय च
नमो वृषाय वृष्याय वृष्णये वृषणाय च
कटङ्कटाय चण्डाय नमः सावयवाय च
नमस्ते वरकृष्णाय वराय वरदाय च
वरगन्धमाल्यवस्त्राय वरातिवरये नमः
नमो वर्षाय वाताय छायायै आतपाय च
नमो रक्तविरक्ताय शोभनायाक्षमालिने
सम्भिन्नाय विभिन्नाय विविक्तविकटाय च
अघोररूपरूपाय घोरघोरतराय च
नमः शिवाय शान्ताय नमः शान्ततराय च
एकपाद्बहुनेत्राय एकशीर्षन्नमोऽस्तु ते
नमो वृद्धाय लुब्धाय संविभागप्रियाय च
पञ्चमालार्चिताङ्गाय नमः पाशुपताय च
नमश्चण्डाय घण्टाय घण्टया जग्धरन्ध्रिणे
सहस्रशतघण्टाय घण्टामालाप्रियाय च
प्राणदण्डाय त्यागाय नमो हिलिहिलाय च
हूंहूङ्काराय पाराय हूंहूङ्कारप्रियाय च
नमश्च शम्भवे नित्यं गिरि वृक्षकलाय च
गर्भमांसशृगालाय तारकाय तराय च
नमो यज्ञाधिपतये द्रुतायोपद्रुताय च
यज्ञवाहाय दानाय तप्याय तपनाय च
नमस्तटाय भव्याय तडितां पतये नमः
अन्नदायान्नपतये नमोऽस्त्वन्नभवाय च
नमः सहस्रशीर्ष्णे च सहस्रचरणाय च
सहस्रोद्यतशूलाय सहस्रनयनाय च
नमोऽस्तु बालरूपाय बालरूपधराय च
बालानाञ्चैव गोप्त्रे च बालक्रीडनकाय च
नमः शुद्धाय बुद्धाय क्षोभणायाक्षताय च
तरङ्गाङ्कितकेशाय मुक्तकेशाय वै नमः
नमः षट्कर्मनिष्ठाय त्रिकर्मनिरताय च
वर्णाश्रमाणां विधिवत् पृथक्कर्मप्रवर्तिने
नमो घोषाय घोष्याय नमः कलकलाय च
श्वेतपिङ्गलनेत्राय कृष्णरक्तक्षणाय च
धर्मार्थ काममोक्षाय क्रथाय कथनाय च
साङ्ख्याय साङ्ख्यमुख्याय योगाधिपतये नमः
नमो रथ्यविरथ्याय चतुष्पथरताय च
कृष्णा जिनोत्तरीयाय व्यालयज्ञोपवीतिने
ईशानवज्रसंहाय हरिकेश नमोऽस्तु ते
अविवेकैकनाथाय व्यक्ताव्यक्त नमोऽस्तु ते
काम कामद कामध्न धृष्टोदृप्तनिषूदन
सर्व सर्वद सर्वज्ञ सन्ध्याराग नमोऽस्तु ते
महाबाल महाबाहो महासत्त्व महाद्युते
महामेघवरप्रेक्ष महाकाल नमोऽस्तु ते
स्थूलजीर्णाङ्गजटिने वल्कलाजिनधारिणे
दीप्तसूर्याग्निजटिने वल्कलाजिनवाससे
सहस्रसूर्यप्रतिम तपोनित्य नमोऽस्तु ते
उन्मादनशतावर्त्त गङ्गातोयार्द्धमूर्द्धज
चन्द्रावर्त्त युगावर्त्त मेघावर्त्त नमोऽस्तु ते
त्वमन्नमन्नकर्त्ता च अन्नदश्च त्वमेव हि
अन्नस्रष्टा च पक्ता च पक्वभुक्तपचे नमः
जरायुजोऽण्डजश्चैव स्वेदजोद्भिज्ज एव च
त्वमेव देवदेवशो भूतग्रामश्चतुर्विधः ।
चराचरस्य ब्रह्मा त्वं प्रतिहर्त्ता त्वमेव च
त्वमेव ब्रह्मविदुषामपि ब्रह्मविदां वरः
सत्त्वस्य परमा योनिरब्वायुज्योतिषां निधिः
ऋक्सामानि तथोङ्कारमाहुस्त्वां ब्रह्मवादिनः
हविर्हावी हवो हावी हुवां वाचाहुतिः सदा
गायन्ति त्वां सुरश्रेष्ठ सामगा ब्रह्मवादिनः
यजुर्मयो ऋङ्मयश्च सामाथर्वमयस्तथा
पठ्यसे ब्रह्मविद्भिस्त्वं कल्पोपनिषदां गणैः
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा वर्णावराश्च ये
त्वामेव मेघसङ्घाश्च विश्वस्त नितगर्ज्जितम्
संवत्सरस्त्वमृतवो मासा मासार्द्धमेव च
कला काष्ठा निमेषाश्च नक्षत्राणि युगा ग्रहाः
वृषाणां ककुदं त्वं हि गिरीणां शिखराणि च
सिंहो मृगाणां पततां तार्क्ष्योऽनन्तश्च भोगिनाम्
क्षीरोदो ह्युदधीनाञ्च यन्त्राणां धनुरेव च
वज्रम्प्रहरणानाञ्च व्रतानां सत्यमेव च
इच्छा द्वेषश्च रागश्च मोहः क्षामो दमः शमः
व्यवसायो धृतिर्लोभः कामक्रोधौ जयाजयौ
त्वं गदी त्वं शरी चापि खट्वाङ्गी झर्झरी तथा
छेत्ता भेत्ता प्रहर्त्ता च त्वं नेताप्यन्तको मतः
दशलक्षणसंयुक्तो धर्मोऽर्थः काम एव च
इन्द्रः समुद्राः सरितः पल्वलानि सरांसि च
लतावल्ली तृणौषध्यः पशवो मृगपक्षिणः
द्रव्यकर्मगुणारम्भः कालपुष्पफलप्रदः
आदिश्चान्तश्च मध्यश्च गायत्र्योङ्कार एव च
हरितो लोहितः कृष्णो नीलः पीतस्तथारुणः
कद्रुश्च कपिलश्चैव कपोतो मेचकस्तथा
सुवर्णरेता विख्यातः सुवर्णश्चाप्यतो मतः
सुवर्णनामा च तथा सुवर्णप्रिय एव च
त्वमिन्द्रोऽथ यमश्चैव वरुणो धनदोऽनलः
उत्फुल्लश्चित्रभानुश्च स्वर्भानुर्भानुरेव च
होत्रं होता च होमस्त्वं हुतञ्च प्रहुतं प्रभुः
सुपर्णञ्च तथा ब्रह्म यजुषां शतरुद्रियम्
पवित्राणां पवित्रं च मङ्गलानाञ्च मङ्गलम्
गिरिः स्तोकस्तथा वृक्षो जीवः पुद्गल एव च
सत्त्वं त्वञ्च रजस्त्वञ्च तमश्च प्रजनं तथा
प्राणोऽपानः समानश्च उदानो व्यान एव च
उन्मेषश्चैव मेषश्च तथा जृम्भितमेव च
लोहिताङ्गो गदी दंष्ट्री महावक्त्रो महोदरः
शुचिरोमा हरिच्छ्मश्रुरूर्द्ध्वकेशस्त्रिलोचनः
गीतवादित्रनृत्याङ्गो गीतवादनकप्रियः
मत्स्यो जली जलो जल्यो जवः कालः कली कलः
विकालश्च सुकालश्च दुष्कालः कलनाशनः
मृत्युश्चैव क्षयोऽन्तश्च क्षमापायकरो हरः
संवर्त्तकोऽन्तकश्चैव संवर्त्तकबलाहकौ
घटो घटीको घण्टीको चूडालोलबलो बलम्
ब्रह्मकालोऽग्निवक्त्रश्च दण्डी मुण्डी च दण्डधृक्
चतुर्युगश्चतुर्वेदश्चतुर्होत्रश्चतुष्पथः
चतुरा श्रमवेत्ता च चातुर्वर्ण्यकरश्च ह
क्षराक्षरप्रियो धूर्त्तोऽगण्योऽगण्यगणाधिपः
रुद्राक्षमाल्याम्बरधरो गिरिको गिरिकप्रियः
शिल्पीशः शिल्पिनां श्रेष्ठः सर्वशिल्पप्रवर्त्तकः
भगनेत्रान्तकश्चन्द्रः पूष्णो दन्तविनाशनः
गूढावर्त्तश्च गूढश्च गूढप्रतिनिषेविता
तरणस्तारकश्चैव सर्वभूतसुतारणः
धाता विधाता सत्वानां निधाता धारणो धरः
तपो ब्रह्म च सत्यञ्च ब्रह्मचर्यमथार्जवम्
भूतात्मा भूतकृद्भूतो भूतभव्यभवोद्भवः
भूर्भुवःस्वरितश्चैव तथोत्पत्तिर्महेश्वरः
ईशानो वीक्षणः शान्तो दुर्दान्तो दन्तनाशनः
ब्रह्मावर्त्त सुरावर्त्त कामावर्त्त नमोऽस्तु ते
कामबिम्बनिहर्त्ता च कर्णिकाररजःप्रियः
मुखचन्द्रो भीममुखः सुमुखो दुर्मुखो मुखः
चतुर्मुखो बहुमुखो रणे ह्यभिमुखः सदा
हिरण्यगर्भः शकुनिर्महोदधिः परो विराट्
अधर्महा महादण्डो दण्डधारी रणप्रियः
गोतमो गोप्रतारश्च गोवृषेश्वरवाहनः
धर्मकृद्धर्मस्रष्टा च धर्मो धर्मविदुत्तमः
त्रैलोक्यगोप्ता गोविन्दो मानदो मान एव च
तिष्ठन् स्थिरश्च स्थाणुश्च निष्कम्पः कम्प एव च
दुर्वारणो दुर्विषदो दुःसहो दुरतिक्रमः
दुर्द्धरो दुष्प्रकम्पश्च दुर्विदो दुर्ज्जयो जयः
शशः शशाङ्कः शमनः शीतोष्णं दुर्जराऽथ तृट्
आधयो व्याधयश्चैव व्याधिहा व्याधिगश्च ह
सह्यो यज्ञो मृगा व्याधा व्याधीनामाकरोऽकरः
शिखण्डी पुण्डरीकाक्षः पुण्डरीकावलोकनः
दण्डधरः सदण्डश्च दण्डमुण्डविभूषितः
विषपोऽमृतपश्चैव सुरापः क्षीरसोमपः
मधुपश्चाज्यपश्चैव सर्वपश्च महाबलः
वृषाश्ववाह्यो वृषभस्तथा वृषभलोचनः
वृषभश्चैव विख्यातो लोकानां लोकसत्कृतः
चन्द्रादित्यौ चक्षुषी ते हृदयञ्च पितामहः
अग्निरापस्तथा देवो धर्मकर्मप्रसाधितः
न ब्रह्मा न च गोविन्दः पुराणऋषयो न च
माहात्म्यं वेदितुं शक्ता याथातथ्येन ते शिव
या मूर्त्तयः सुसूक्ष्मास्ते न मह्यं यान्ति दर्शनम्
ताभिर्मां सततं रक्ष पिता पुत्रमिवौरसम्
रक्ष मां रक्षणीयोऽहं तवानघ नमोऽस्तु ते
भक्तानुकम्पी भगवान् भक्तश्चाहं सदा त्वयि
यः सहस्राण्यनेकानि पुंसामाहृत्य दुर्द्दशः
तिष्ठत्येकः समुद्रान्ते स मे गोप्तास्तु नित्यशः
यं विनिद्रा जितश्वासाः सत्त्वस्थाः समदर्शिनः
ज्योतिः पश्यन्ति युञ्जानास्तस्मै योगात्मने नमः
सम्भक्ष्य सर्व भूतानि युगान्ते समुपस्थिते
यः शेते जलमध्यस्थस्तं प्रपद्येऽप्सुशायिनम्
प्रविश्य वदने राहोर्यः सोमं ग्रसते निशि
ग्रसत्यर्कञ्च स्वर्भानुर्भूत्वा सोमाग्निरेव च
येऽङ्गुष्ठमात्राः पुरुषा देहस्थाः सर्वदेहिनाम्
रक्षन्तु ते हि मां नित्यं नित्यमाप्याययन्तु माम्
ये चाप्युत्पतिता गर्भादधोभागगताश्च ये
तेषां स्वाहाः स्वधाश्चैव आप्नुवन्तु स्वदन्तु च
ये न रोदन्ति देहस्थाः प्राणिनो रोदयन्ति च
हर्षयन्ति च हृष्यन्ति नमस्तेभ्योऽस्तु नित्यशः
ये समुद्रे नदीदुर्गे पर्वतेषु गुहासु च
वृक्षमूलेषु गोष्ठेषु कान्तारगहनेषु न
चतुष्पथेषु रथ्यासु चत्वरेषु सभासु च
चन्द्रार्कयोर्मध्यगता ये च चन्द्रार्करश्मिषु
रसातलगता ये च ये च तस्मात्परङ्गताः
नमस्तेभ्यो नमस्तेभ्यो नमस्तेभ्यश्च नित्यशः
सूक्ष्माः स्थूलाः कृशा ह्रस्वा नमस्तेभ्यस्तु नित्यशः
सर्वस्त्वं सर्वगो देव सर्वभूतपतिर्भवान्
सर्वभूतान्तरात्मा च तेन त्वं न निमन्त्रितः
त्वमेव चेज्यसे यस्माद्यज्ञैर्विविधदक्षिणैः
त्वमेव कर्त्ता सर्वस्य तेन त्वं न निमन्त्रितः
अथ वा मायया देव मोहितः सूक्ष्मया त्वया
एतस्मात् कारणाद्वापि तेन त्वं न निमन्त्रितः
प्रसीद मम देवेश त्वमेव शरणं मम
त्वं गतिस्त्वं प्रतिष्ठा च न चान्यास्ति न मे गतिः
स्तुत्वैवं स महादेवं विरराम प्रजापतिः
भगवानपि सुप्रीतः पुनर्दक्षमभाषत
परितुष्टोऽस्मि ते दक्ष स्तवेनानेन सुव्रत
बहुनात्र किमुक्तेन मत्समीपं गमिष्यसि
अथैनमब्रवीद्वाक्यं त्रैलोक्याधिपतिर्भवः
कृत्वाश्वासकरं वाक्यं वाक्यज्ञो वाक्यमाहतम्
दक्ष दक्ष न कर्त्तव्यो मन्युर्विघ्नमिमं प्रति
अहं यज्ञहा न त्वन्यो दृश्यते तत्पुरा त्वया
भूयश्च तं वरमिमं मत्तो गृह्णीष्व सुव्रत
प्रसन्नवदनो भूत्वा त्वमेकाग्रमनाः शृणु
अश्वमेधसहस्रस्य वाजपेयशतस्य च
प्रजापते मत्प्रसादात् फलभागी भविष्यसि
वेदान् षडङ्गानुद्धृत्य साङ्ख्यान्योगांश्च कृत्स्नशः
तपश्च विपुलं तप्त्वा दुश्चरं देवदानवैः
अर्थैर्द्दशार्द्धसंयुक्तैर्गूढमप्राज्ञनिर्म्मितम्
वर्णाश्रमकृतैर्धर्मैंर्विपरीतं क्वचित्समम्
श्रुत्यर्थैरध्यवसितं पशुपाशविमोक्षणम्
सर्वेषामाश्रमाणान्तु मया पाशुपतं व्रतम्
उत्पादितं शुभं दक्ष सर्वपापविमोक्षणम्
अस्य चीर्णस्य यत्सम्यक् फलं भवति पुष्कलम्
तदस्तु ते महाभाग मानसस्त्यज्यतां ज्वरः
एवमुक्त्वा महादेवः सपत्नीकः सहानुगः
अदर्शनमनुप्राप्तो दक्षस्यामितविक्रमः
अवाप्य च तदा भागं यथोक्तं ब्रह्मणा भवः
ज्वरञ्च सर्वधर्मज्ञो बहुधा व्यभजत्तदा
शान्त्यर्थं सर्वभूतानां शृणुध्वं तत्र वै द्विजाः
शीर्षाभितापो नागानां पर्वतानां शिलारुजः
अपान्तु नालिकां विद्यान्निर्मोकम्भुजगेष्वपि
स्वौरकः सौरभेयाणामूषरः पृथिवीतले
इभा नामपि धर्मज्ञ दृष्टिप्रत्यवरोधनम्
रन्ध्रोद्भूतं तथाश्वानां शिखोद्भेदश्च बर्हिणाम्
नेत्ररोगः कोकिलानां ज्वरः प्रोक्तो महात्मभिः
अजानां पित्तभेदश्च सर्वेषामिति नः श्रुतम्
शुकानामपि सर्वेषां हिमिका प्रोच्यते ज्वरः
शार्दूलेष्वपि वै विप्राः श्रमो ज्वर इहोच्यते
मानुषेषु तु सर्वज्ञ ज्वरो नामैष कीर्तितः
मरणे जन्मनि तथा मध्ये च विशते सदा
एतन्माहेश्वरं तेजो ज्वरो नाम सुदारुणः
नमस्यश्चैव मान्यश्च सर्वप्राणिभिरीश्वरः
इमां ज्वरोत्पत्तिमदीनमानसः पठेत्सदा यः सुसमाहितो नरः
विमुक्तरोगः स नरो मुदा युतो लभेत कामान् स यथामनीषितान्
दक्षप्रोक्तं स्तवञ्चापि कीर्त्तयेद्यः शृणोति वा
नाशुभं प्राप्नुयात् किञ्चिद्दीर्घञ्चायुरवाप्नुयात्
यथा सर्वेषु देवेषु वरिष्ठो योगवान् हरः
तथा स्तवो वरिष्ठोऽयं स्तवानां ब्रह्मनिर्मितः
यशोराज्यसुखैश्वर्यवित्तायुर्धनकाङ्क्षिभिः
स्तोतव्यो भक्तिमास्थाय विद्याकामैश्च यत्नतः
व्याधितो दुःखितो दीनश्चौरत्रस्तो भयार्दितः
राजकार्यनियुक्तो वा मुच्यते महतो भयात्
अनेन चैव देहेन गणानां स गणाधिपः
इह लोके सुखं प्राप्य गण एवोपपद्यते
न च यक्षाः पिशाचा वा न नागा न विनायकाः
कुर्युर्विघ्नं गृहे तस्य यत्र संस्तूयते भवः
शृणुयाद्वा इदं नारी सुभक्त्या ब्रह्मचारिणी
पितृभिर्भर्तृपक्षाभ्यां पूज्या भवति देववत्
शृणुयाद्वा इदं सर्वं कीर्त्तयेद्वाप्यभीक्ष्णशः
तस्य सर्वाणि कार्याणि सिद्धिं गच्छन्त्यविघ्नतः
मनसा चिन्तितं यच्च यच्च वाचाप्युदाहृतम्
सर्वं सम्पद्यते तस्य स्तवनस्यानुकीर्त्तनात्
देवस्य सगुहस्याथ देव्या नन्दीश्वरस्य तु
बलिं विभवतः कृत्वा दमेन नियमेन च
ततः स युक्तो गृह्णीयान्नामान्याशु यथाक्रमम्
ईप्सितान् लभतेऽत्यर्थं कामान् भोगांश्च मानवः
मृतश्च स्वर्गमाप्नोति स्त्रीसहस्रपरिवृतः
सर्व कर्मसु युक्तो वा युक्तो वा सर्वपातकैः
पठन् दक्षकृतं स्तोत्रं सर्वपापैः प्रमुच्यते
मृतश्च गणसालोक्यं पूज्यमानः सुरासुरैः
वृषेव विधियुक्तेन विमानेन विराजते
आभूतसम्प्लवस्थायी रुद्रस्यानुचरो भवेत्
इत्याह भगवान् व्यासः पराशरसुतः प्रभुः
नैतद्वेदयते कश्चिन्नेदं श्राव्यन्तु कस्यचित्
श्रुत्वैतत्परमं गुह्यं येऽपि स्युः पापकारिणः
वैश्याः स्त्रियश्च शूद्राश्च रुद्रलोकमवाप्नुयुः
श्रावयेद्यस्तु विप्रेभ्यः सदा पर्वसु पर्वसु
रुद्रलोकमवाप्नोति द्विजो वै नात्र संशयः
dakṣa uvāca
namaste devadeveśa devāribalasūdana
devendra hyamaraśreṣṭha devadānavapūjita
sahasrākṣa virūpākṣa tryakṣa yakṣādhipapriya
sarvataḥ pāṇipādastvaṃ sarvato’kṣiśiromukhaḥ
sarvataḥ śrutimān loke sarvānāvṛtya tiṣṭhasi
śaṅkukarṇa mahākarṇa kumbhakarṇārṇavālaya
gajendrakarṇa gokarṇa pāṇikarṇa namo’stu te
śatodara śatāvartta śatajihva śatānana
gāyanti tvāṃ gāyatriṇo hyarccayanti tathārccinaḥ
devadānavagoptā ca brahmā ca tvaṃ śatakratuḥ
mūrttīśastvaṃ mahāmūrte samudrāmbu dharāya ca
sarvā hyasmin devatāste gāvo goṣṭha ivāsate
śarīrante prapaśyāmi somamagniṃ jaleśvaram
ādityamatha viṣṇuñca brahmāṇaṃ sabṛhaspatim
kriyā kāryyaṃ kāraṇañca karttā karaṇameva ca
asacca sadasaccaiva tathaiva prabhavāvyayam
namo bhavāya śarvāya rudrāya varadāya ca
paśūnāṃ pataye caiva namastvandhakaghātine
trijaṭāya triśīrṣāya triśūlavaradhāriṇe
tryambakāya trinetrāya tripuraghnāya vai namaḥ
namaścaṇḍāya muṇḍāya pracaṇḍāya dharāya ca
daṇḍi māsaktakarṇāya daṇḍimuṇḍāya vai namaḥ
namo’rddhadaṇḍakeśāya niṣkāya vikṛtāya ca
vilohitāya dhūmrāya nīlagrīvāya te namaḥ
namastvapratirūpāya śivāya ca namo’stu te
sūryyāya sūryyapataye sūryyadhvajapatākine
namaḥ pramathanāthāya vṛṣaskandhāya dhanvine
namo hiraṇyagarbhāya hiraṇyakavacāya ca
hiraṇyakṛtacūḍāya hiraṇyapataye namaḥ
satraghātāya daṇḍāya varṇapānapuṭāya ca
namaḥ stutāya stutyāya stūyamānāya vai namaḥ
sarvāyābhakṣyabhakṣyāya sarvabhūtānttarātmane
namo hotrāya mantrāya śukladhvajapatākine
namo namāya namyāya namaḥ kilikilāya ca
namaste śayamānāya śayitāyotthitāya ca
sthitāya calamānāya mudrāya kuṭilāya ca
namo narttanaśīlāya mukhavāditrakāriṇe
nāṭyopahāralubdhāya gītavādyaratāya ca
namo jyeṣṭhāya śreṣṭhāya balapramathanāya ca
kalanāya ca kalpāya kṣayāyopakṣayāya ca
bhīmadundubhihāsāya bhīmasenapriyāya ca
ugrāya ca namo nityaṃ namaste daśabāhave
namaḥ kapālahastāya citābhasmapriyāya ca
vibhīṣaṇāya bhīṣmāya bhīṣmavratadharāya ca
namo vikṛtavakṣāya khaḍgajihvāgradaṃṣṭriṇe
pakvāmamāṃsalubdhāya tumbavīṇāpriyāya ca
namo vṛṣāya vṛṣyāya vṛṣṇaye vṛṣaṇāya ca
kaṭaṅkaṭāya caṇḍāya namaḥ sāvayavāya ca
namaste varakṛṣṇāya varāya varadāya ca
varagandhamālyavastrāya varātivaraye namaḥ
namo varṣāya vātāya chāyāyai ātapāya ca
namo raktaviraktāya śobhanāyākṣamāline
sambhinnāya vibhinnāya viviktavikaṭāya ca
aghorarūparūpāya ghoraghoratarāya ca
namaḥ śivāya śāntāya namaḥ śāntatarāya ca
ekapādbahunetrāya ekaśīrṣannamo’stu te
namo vṛddhāya lubdhāya saṃvibhāgapriyāya ca
pañcamālārcitāṅgāya namaḥ pāśupatāya ca
namaścaṇḍāya ghaṇṭāya ghaṇṭayā jagdharandhriṇe
sahasraśataghaṇṭāya ghaṇṭāmālāpriyāya ca
prāṇadaṇḍāya tyāgāya namo hilihilāya ca
hūṃhūṅkārāya pārāya hūṃhūṅkārapriyāya ca
namaśca śambhave nityaṃ giri vṛkṣakalāya ca
garbhamāṃsaśṛgālāya tārakāya tarāya ca
namo yajñādhipataye drutāyopadrutāya ca
yajñavāhāya dānāya tapyāya tapanāya ca
namastaṭāya bhavyāya taḍitāṃ pataye namaḥ
annadāyānnapataye namo’stvannabhavāya ca
namaḥ sahasraśīrṣṇe ca sahasracaraṇāya ca
sahasrodyataśūlāya sahasranayanāya ca
namo’stu bālarūpāya bālarūpadharāya ca
bālānāñcaiva goptre ca bālakrīḍanakāya ca
namaḥ śuddhāya buddhāya kṣobhaṇāyākṣatāya ca
taraṅgāṅkitakeśāya muktakeśāya vai namaḥ
namaḥ ṣaṭkarmaniṣṭhāya trikarmaniratāya ca
varṇāśramāṇāṃ vidhivat pṛthakkarmapravartine
namo ghoṣāya ghoṣyāya namaḥ kalakalāya ca
śvetapiṅgalanetrāya kṛṣṇaraktakṣaṇāya ca
dharmārtha kāmamokṣāya krathāya kathanāya ca
sāṅkhyāya sāṅkhyamukhyāya yogādhipataye namaḥ
namo rathyavirathyāya catuṣpatharatāya ca
kṛṣṇā jinottarīyāya vyālayajñopavītine
īśānavajrasaṃhāya harikeśa namo’stu te
avivekaikanāthāya vyaktāvyakta namo’stu te
kāma kāmada kāmadhna dhṛṣṭodṛptaniṣūdana
sarva sarvada sarvajña sandhyārāga namo’stu te
mahābāla mahābāho mahāsattva mahādyute
mahāmeghavaraprekṣa mahākāla namo’stu te
sthūlajīrṇāṅgajaṭine valkalājinadhāriṇe
dīptasūryāgnijaṭine valkalājinavāsase
sahasrasūryapratima taponitya namo’stu te
unmādanaśatāvartta gaṅgātoyārddhamūrddhaja
candrāvartta yugāvartta meghāvartta namo’stu te
tvamannamannakarttā ca annadaśca tvameva hi
annasraṣṭā ca paktā ca pakvabhuktapace namaḥ
jarāyujo’ṇḍajaścaiva svedajodbhijja eva ca
tvameva devadevaśo bhūtagrāmaścaturvidhaḥ ।
carācarasya brahmā tvaṃ pratiharttā tvameva ca
tvameva brahmaviduṣāmapi brahmavidāṃ varaḥ
sattvasya paramā yonirabvāyujyotiṣāṃ nidhiḥ
ṛksāmāni tathoṅkāramāhustvāṃ brahmavādinaḥ
havirhāvī havo hāvī huvāṃ vācāhutiḥ sadā
gāyanti tvāṃ suraśreṣṭha sāmagā brahmavādinaḥ
yajurmayo ṛṅmayaśca sāmātharvamayastathā
paṭhyase brahmavidbhistvaṃ kalpopaniṣadāṃ gaṇaiḥ
brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrā varṇāvarāśca ye
tvāmeva meghasaṅghāśca viśvasta nitagarjjitam
saṃvatsarastvamṛtavo māsā māsārddhameva ca
kalā kāṣṭhā nimeṣāśca nakṣatrāṇi yugā grahāḥ
vṛṣāṇāṃ kakudaṃ tvaṃ hi girīṇāṃ śikharāṇi ca
siṃho mṛgāṇāṃ patatāṃ tārkṣyo’nantaśca bhoginām
kṣīrodo hyudadhīnāñca yantrāṇāṃ dhanureva ca
vajrampraharaṇānāñca vratānāṃ satyameva ca
icchā dveṣaśca rāgaśca mohaḥ kṣāmo damaḥ śamaḥ
vyavasāyo dhṛtirlobhaḥ kāmakrodhau jayājayau
tvaṃ gadī tvaṃ śarī cāpi khaṭvāṅgī jharjharī tathā
chettā bhettā praharttā ca tvaṃ netāpyantako mataḥ
daśalakṣaṇasaṃyukto dharmo’rthaḥ kāma eva ca
indraḥ samudrāḥ saritaḥ palvalāni sarāṃsi ca
latāvallī tṛṇauṣadhyaḥ paśavo mṛgapakṣiṇaḥ
dravyakarmaguṇārambhaḥ kālapuṣpaphalapradaḥ
ādiścāntaśca madhyaśca gāyatryoṅkāra eva ca
harito lohitaḥ kṛṣṇo nīlaḥ pītastathāruṇaḥ
kadruśca kapilaścaiva kapoto mecakastathā
suvarṇaretā vikhyātaḥ suvarṇaścāpyato mataḥ
suvarṇanāmā ca tathā suvarṇapriya eva ca
tvamindro’tha yamaścaiva varuṇo dhanado’nalaḥ
utphullaścitrabhānuśca svarbhānurbhānureva ca
hotraṃ hotā ca homastvaṃ hutañca prahutaṃ prabhuḥ
suparṇañca tathā brahma yajuṣāṃ śatarudriyam
pavitrāṇāṃ pavitraṃ ca maṅgalānāñca maṅgalam
giriḥ stokastathā vṛkṣo jīvaḥ pudgala eva ca
sattvaṃ tvañca rajastvañca tamaśca prajanaṃ tathā
prāṇo’pānaḥ samānaśca udāno vyāna eva ca
unmeṣaścaiva meṣaśca tathā jṛmbhitameva ca
lohitāṅgo gadī daṃṣṭrī mahāvaktro mahodaraḥ
śuciromā haricchmaśrurūrddhvakeśastrilocanaḥ
gītavāditranṛtyāṅgo gītavādanakapriyaḥ
matsyo jalī jalo jalyo javaḥ kālaḥ kalī kalaḥ
vikālaśca sukālaśca duṣkālaḥ kalanāśanaḥ
mṛtyuścaiva kṣayo’ntaśca kṣamāpāyakaro haraḥ
saṃvarttako’ntakaścaiva saṃvarttakabalāhakau
ghaṭo ghaṭīko ghaṇṭīko cūḍālolabalo balam
brahmakālo’gnivaktraśca daṇḍī muṇḍī ca daṇḍadhṛk
caturyugaścaturvedaścaturhotraścatuṣpathaḥ
caturā śramavettā ca cāturvarṇyakaraśca ha
kṣarākṣarapriyo dhūrtto’gaṇyo’gaṇyagaṇādhipaḥ
rudrākṣamālyāmbaradharo giriko girikapriyaḥ
śilpīśaḥ śilpināṃ śreṣṭhaḥ sarvaśilpapravarttakaḥ
bhaganetrāntakaścandraḥ pūṣṇo dantavināśanaḥ
gūḍhāvarttaśca gūḍhaśca gūḍhapratiniṣevitā
taraṇastārakaścaiva sarvabhūtasutāraṇaḥ
dhātā vidhātā satvānāṃ nidhātā dhāraṇo dharaḥ
tapo brahma ca satyañca brahmacaryamathārjavam
bhūtātmā bhūtakṛdbhūto bhūtabhavyabhavodbhavaḥ
bhūrbhuvaḥsvaritaścaiva tathotpattirmaheśvaraḥ
īśāno vīkṣaṇaḥ śānto durdānto dantanāśanaḥ
brahmāvartta surāvartta kāmāvartta namo’stu te
kāmabimbaniharttā ca karṇikārarajaḥpriyaḥ
mukhacandro bhīmamukhaḥ sumukho durmukho mukhaḥ
caturmukho bahumukho raṇe hyabhimukhaḥ sadā
hiraṇyagarbhaḥ śakunirmahodadhiḥ paro virāṭ
adharmahā mahādaṇḍo daṇḍadhārī raṇapriyaḥ
gotamo gopratāraśca govṛṣeśvaravāhanaḥ
dharmakṛddharmasraṣṭā ca dharmo dharmaviduttamaḥ
trailokyagoptā govindo mānado māna eva ca
tiṣṭhan sthiraśca sthāṇuśca niṣkampaḥ kampa eva ca
durvāraṇo durviṣado duḥsaho duratikramaḥ
durddharo duṣprakampaśca durvido durjjayo jayaḥ
śaśaḥ śaśāṅkaḥ śamanaḥ śītoṣṇaṃ durjarā’tha tṛṭ
ādhayo vyādhayaścaiva vyādhihā vyādhigaśca ha
sahyo yajño mṛgā vyādhā vyādhīnāmākaro’karaḥ
śikhaṇḍī puṇḍarīkākṣaḥ puṇḍarīkāvalokanaḥ
daṇḍadharaḥ sadaṇḍaśca daṇḍamuṇḍavibhūṣitaḥ
viṣapo’mṛtapaścaiva surāpaḥ kṣīrasomapaḥ
madhupaścājyapaścaiva sarvapaśca mahābalaḥ
vṛṣāśvavāhyo vṛṣabhastathā vṛṣabhalocanaḥ
vṛṣabhaścaiva vikhyāto lokānāṃ lokasatkṛtaḥ
candrādityau cakṣuṣī te hṛdayañca pitāmahaḥ
agnirāpastathā devo dharmakarmaprasādhitaḥ
na brahmā na ca govindaḥ purāṇaṛṣayo na ca
māhātmyaṃ vedituṃ śaktā yāthātathyena te śiva
yā mūrttayaḥ susūkṣmāste na mahyaṃ yānti darśanam
tābhirmāṃ satataṃ rakṣa pitā putramivaurasam
rakṣa māṃ rakṣaṇīyo’haṃ tavānagha namo’stu te
bhaktānukampī bhagavān bhaktaścāhaṃ sadā tvayi
yaḥ sahasrāṇyanekāni puṃsāmāhṛtya durddaśaḥ
tiṣṭhatyekaḥ samudrānte sa me goptāstu nityaśaḥ
yaṃ vinidrā jitaśvāsāḥ sattvasthāḥ samadarśinaḥ
jyotiḥ paśyanti yuñjānāstasmai yogātmane namaḥ
sambhakṣya sarva bhūtāni yugānte samupasthite
yaḥ śete jalamadhyasthastaṃ prapadye’psuśāyinam
praviśya vadane rāhoryaḥ somaṃ grasate niśi
grasatyarkañca svarbhānurbhūtvā somāgnireva ca
ye’ṅguṣṭhamātrāḥ puruṣā dehasthāḥ sarvadehinām
rakṣantu te hi māṃ nityaṃ nityamāpyāyayantu mām
ye cāpyutpatitā garbhādadhobhāgagatāśca ye
teṣāṃ svāhāḥ svadhāścaiva āpnuvantu svadantu ca
ye na rodanti dehasthāḥ prāṇino rodayanti ca
harṣayanti ca hṛṣyanti namastebhyo’stu nityaśaḥ
ye samudre nadīdurge parvateṣu guhāsu ca
vṛkṣamūleṣu goṣṭheṣu kāntāragahaneṣu na
catuṣpatheṣu rathyāsu catvareṣu sabhāsu ca
candrārkayormadhyagatā ye ca candrārkaraśmiṣu
rasātalagatā ye ca ye ca tasmātparaṅgatāḥ
namastebhyo namastebhyo namastebhyaśca nityaśaḥ
sūkṣmāḥ sthūlāḥ kṛśā hrasvā namastebhyastu nityaśaḥ
sarvastvaṃ sarvago deva sarvabhūtapatirbhavān
sarvabhūtāntarātmā ca tena tvaṃ na nimantritaḥ
tvameva cejyase yasmādyajñairvividhadakṣiṇaiḥ
tvameva karttā sarvasya tena tvaṃ na nimantritaḥ
atha vā māyayā deva mohitaḥ sūkṣmayā tvayā
etasmāt kāraṇādvāpi tena tvaṃ na nimantritaḥ
prasīda mama deveśa tvameva śaraṇaṃ mama
tvaṃ gatistvaṃ pratiṣṭhā ca na cānyāsti na me gatiḥ
stutvaivaṃ sa mahādevaṃ virarāma prajāpatiḥ
bhagavānapi suprītaḥ punardakṣamabhāṣata
parituṣṭo’smi te dakṣa stavenānena suvrata
bahunātra kimuktena matsamīpaṃ gamiṣyasi
athainamabravīdvākyaṃ trailokyādhipatirbhavaḥ
kṛtvāśvāsakaraṃ vākyaṃ vākyajño vākyamāhatam
dakṣa dakṣa na karttavyo manyurvighnamimaṃ prati
ahaṃ yajñahā na tvanyo dṛśyate tatpurā tvayā
bhūyaśca taṃ varamimaṃ matto gṛhṇīṣva suvrata
prasannavadano bhūtvā tvamekāgramanāḥ śṛṇu
aśvamedhasahasrasya vājapeyaśatasya ca
prajāpate matprasādāt phalabhāgī bhaviṣyasi
vedān ṣaḍaṅgānuddhṛtya sāṅkhyānyogāṃśca kṛtsnaśaḥ
tapaśca vipulaṃ taptvā duścaraṃ devadānavaiḥ
arthairddaśārddhasaṃyuktairgūḍhamaprājñanirmmitam
varṇāśramakṛtairdharmaiṃrviparītaṃ kvacitsamam
śrutyarthairadhyavasitaṃ paśupāśavimokṣaṇam
sarveṣāmāśramāṇāntu mayā pāśupataṃ vratam
utpāditaṃ śubhaṃ dakṣa sarvapāpavimokṣaṇam
asya cīrṇasya yatsamyak phalaṃ bhavati puṣkalam
tadastu te mahābhāga mānasastyajyatāṃ jvaraḥ
evamuktvā mahādevaḥ sapatnīkaḥ sahānugaḥ
adarśanamanuprāpto dakṣasyāmitavikramaḥ
avāpya ca tadā bhāgaṃ yathoktaṃ brahmaṇā bhavaḥ
jvarañca sarvadharmajño bahudhā vyabhajattadā
śāntyarthaṃ sarvabhūtānāṃ śṛṇudhvaṃ tatra vai dvijāḥ
śīrṣābhitāpo nāgānāṃ parvatānāṃ śilārujaḥ
apāntu nālikāṃ vidyānnirmokambhujageṣvapi
svaurakaḥ saurabheyāṇāmūṣaraḥ pṛthivītale
ibhā nāmapi dharmajña dṛṣṭipratyavarodhanam
randhrodbhūtaṃ tathāśvānāṃ śikhodbhedaśca barhiṇām
netrarogaḥ kokilānāṃ jvaraḥ prokto mahātmabhiḥ
ajānāṃ pittabhedaśca sarveṣāmiti naḥ śrutam
śukānāmapi sarveṣāṃ himikā procyate jvaraḥ
śārdūleṣvapi vai viprāḥ śramo jvara ihocyate
mānuṣeṣu tu sarvajña jvaro nāmaiṣa kīrtitaḥ
maraṇe janmani tathā madhye ca viśate sadā
etanmāheśvaraṃ tejo jvaro nāma sudāruṇaḥ
namasyaścaiva mānyaśca sarvaprāṇibhirīśvaraḥ
imāṃ jvarotpattimadīnamānasaḥ paṭhetsadā yaḥ susamāhito naraḥ
vimuktarogaḥ sa naro mudā yuto labheta kāmān sa yathāmanīṣitān
dakṣaproktaṃ stavañcāpi kīrttayedyaḥ śṛṇoti vā
nāśubhaṃ prāpnuyāt kiñciddīrghañcāyuravāpnuyāt
yathā sarveṣu deveṣu variṣṭho yogavān haraḥ
tathā stavo variṣṭho’yaṃ stavānāṃ brahmanirmitaḥ
yaśorājyasukhaiśvaryavittāyurdhanakāṅkṣibhiḥ
stotavyo bhaktimāsthāya vidyākāmaiśca yatnataḥ
vyādhito duḥkhito dīnaścauratrasto bhayārditaḥ
rājakāryaniyukto vā mucyate mahato bhayāt
anena caiva dehena gaṇānāṃ sa gaṇādhipaḥ
iha loke sukhaṃ prāpya gaṇa evopapadyate
na ca yakṣāḥ piśācā vā na nāgā na vināyakāḥ
kuryurvighnaṃ gṛhe tasya yatra saṃstūyate bhavaḥ
śṛṇuyādvā idaṃ nārī subhaktyā brahmacāriṇī
pitṛbhirbhartṛpakṣābhyāṃ pūjyā bhavati devavat
śṛṇuyādvā idaṃ sarvaṃ kīrttayedvāpyabhīkṣṇaśaḥ
tasya sarvāṇi kāryāṇi siddhiṃ gacchantyavighnataḥ
manasā cintitaṃ yacca yacca vācāpyudāhṛtam
sarvaṃ sampadyate tasya stavanasyānukīrttanāt
devasya saguhasyātha devyā nandīśvarasya tu
baliṃ vibhavataḥ kṛtvā damena niyamena ca
tataḥ sa yukto gṛhṇīyānnāmānyāśu yathākramam
īpsitān labhate’tyarthaṃ kāmān bhogāṃśca mānavaḥ
mṛtaśca svargamāpnoti strīsahasraparivṛtaḥ
sarva karmasu yukto vā yukto vā sarvapātakaiḥ
paṭhan dakṣakṛtaṃ stotraṃ sarvapāpaiḥ pramucyate
mṛtaśca gaṇasālokyaṃ pūjyamānaḥ surāsuraiḥ
vṛṣeva vidhiyuktena vimānena virājate
ābhūtasamplavasthāyī rudrasyānucaro bhavet
ityāha bhagavān vyāsaḥ parāśarasutaḥ prabhuḥ
naitadvedayate kaścinnedaṃ śrāvyantu kasyacit
śrutvaitatparamaṃ guhyaṃ ye’pi syuḥ pāpakāriṇaḥ
vaiśyāḥ striyaśca śūdrāśca rudralokamavāpnuyuḥ
śrāvayedyastu viprebhyaḥ sadā parvasu parvasu
rudralokamavāpnoti dvijo vai nātra saṃśayaḥ